|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.44. अध्यायः 044
Mahabharata - Drona Parva - Chapter Topics
अभिमन्युपराक्रमवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-44-0x(4367)(46557)
सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण़्डुषु।
सुघोरमभवद्युद्धं त्वदीयानां परैः सह॥ 7-44-1(46558)
प्रविश्याथार्जुनिः सेनां सत्यसन्धो दुरासदः।
व्यक्षोभयत तेजस्वी मकरः सागरं यथा॥ 7-44-2(46559)
तं तथा शरवर्षेण छादयन्तमरिंदमम्।
यथा प्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः॥ 7-44-3(46560)
तेषां तस्य च सम्मर्दो दारुणः समपद्यत।
सृजतां शरवर्षाणि प्रसक्तममितौजसाम्॥ 7-44-4(46561)
रथव्रजेन संरुद्धस्तैरमित्रैस्तथाऽऽर्जुनिः।
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम्॥ 7-44-5(46562)
तं च विव्याध बलवांस्तस्य चाश्वानजिह्मगैः।
वातायमानैस्तैरश्वैर्विसंज्ञोऽपहृतो रणात्॥ 7-44-6(46563)
तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम्।
रथव्रजास्ततो हृष्टाः साधुसाध्विति चुक्रुशुः॥ 7-44-7(46564)
तं सिंहमिव सङ्क्रुद्धं प्रमथ्नन्तं शरैररीन्।
आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम्॥ 7-44-8(46565)
सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्कैरवाकिरत्।
अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे॥ 7-44-9(46566)
तमयस्मयवर्माणमिषुणा दूरपातिना।
विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ॥ 7-44-10(46567)
वसातीयं हतं दृष्ट्वा क्रुद्धाः क्षत्रियपुङ्गवाः।
परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः॥ 7-44-11(46568)
विष्फारयन्तश्चापानि नानारूपाण्यनेकशः।
तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह॥ 7-44-12(46569)
तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च।
सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः॥ 7-44-13(46570)
सखङ्गाः साङ्गुलित्राणाः सपट्टसपरश्वथाः।
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः॥ 7-44-14(46571)
स्रग्भिराभरणैर्वस्त्रैः पतितैर्विविधैर्ध्वजैः।
वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः॥ 7-44-15(46572)
उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः।
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः॥ 7-44-16(46573)
अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः।
रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही॥ 7-44-17(46574)
निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः।
जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत॥ 7-44-18(46575)
दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा।
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत॥ 7-44-19(46576)
काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च।
धनुषश्च शराणां च तदपश्याम केवलम्॥ 7-44-20(46577)
तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम्।
आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम्॥ ॥ 7-44-21(46578)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे चतुश्चत्वारिंशोऽध्यायः॥ 44 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|